Lectures on Vedanta Karikavali

Vedanta Karikavali is a primer on Vishistadvaita Vedanta composed by one Sri Bucci Venkatacharya.

Through a webinar program of Vyoma labs, an organisation devoted for the promotion of the cause of Sanskrit, I am giving a series of lectures.

More information about the program can be found in the below link

The link to the Youtube videos of the lectures is as below.

thanks and regards

Sreeram.

Abheetistava – meaning with emphasis on Sanskrit

Abheetistava is a stuti on Bhagavan Ranganatha of Srirangam by Swami Vedanta Desika, at a time when the entire country was suffering from the invasion of Mughals and Turks. Srirangam, in particular was devastated; the archa murti of Ranganatha had to be carried away to far and safer places. Lot of Srivaishnavas wer killed and Swami Desika had to escape to Sathyagala, a scenic kshetra on the banks of Cauvery near Mysore with a responsibility to protect the Sampradaya by passing on the knowledge to sishyas. This verse was written during by Desika during his stat in Sathyagala in which he prays to Ranganatha to instill fearlessness in the minds of devotees. He requests the Lord to destroy the evil that has befallen the society and which has caused tremendous fear in the people. The metrical formation is a very good one to chant. There are 29 verses in all. Adiyen is attaching the links that cover the meanings in parts and also a youtube link in which adiyen has rendered the stotra alone.

Verses from 1 to 6 that includes the introduction

https://drive.google.com/open?id=1Wnb2X-cxyoAoYZDE5LIU8gC5VOXgFuN_

verses from 7 to 12

https://drive.google.com/open?id=1XDJ-cTCgXr8_4eXX6jl0g0198a4QgscC

verses from 13 to 18

https://drive.google.com/open?id=1gdabBmhzXXZufkCwTP4svQ4WK2P6AvU6

verses from 19 to 24

https://drive.google.com/open?id=1-fyWoZYDXGfFChLSS4r6alvyqk2Ld0VM

verses from 25 to 29

https://drive.google.com/open?id=1JrYq1tmsYDyVp4qfecYxJJnzCAtdZyfZ

the link to listen to the recitation is as below. Dasan.

Two famous poets – Kalidasa and Venkatanatha – a very short comparison of their works – an article in Sanskrit

Mahakavis, though rare, are born from time to time and compose wonderful literary works with their unparalleled intellect or pratibha. The ones who are born earlier do influence the latter ones and the earlier ones are indeed influenced by those who are born prior to them. This influence is evident to the discerning reader when he finds the usage of similar or same similes etc. This should not be mistaken for plagiarism as it is not altogether not possible for two brilliant minds to think about the same idea. When ordinary men are capable to think about the same mundane some things, so are the gifted men capable to think about extraordinary things. Sage Valmiki influenced Kalidasa and Kalidasa has influenced Venkatanatha who is popularly known as Vedanta Desika. This short article compares the two poets through a couple of verses from their works. This is only a tip of an iceberg. A lot remains to be explored.

महाकव्योरैकमत्यम् – एकः लघुप्रबन्धः

डा. श्रीरामः जगन्नाथः

रघुवंशकुमारसंभवयोः महाकाव्ययोः रचयितारं महाकविं कालिदासं काव्यरसिकास्सर्वेपि जानन्ति प्रायेण । कवितार्किकसिंहो वेदान्तदेशिक इति बिरुदाभ्यां प्रसिद्धः श्रीवेङ्कटनाथोपि महाकविष्यन्यतमः विश्रुतश्च । प्रायस्तस्य प्रसिद्धिस्तु अधिकतया तर्कमीमांसावेदान्तशास्त्रवैशारद्येन स्यात् । तेन कृतेषु शताधिककृतिषु वेदान्तविषयपराणि भाष्यानि प्रकरणग्रन्थाः परमात्मस्तुतिपराश्च संस्कृतद्रमिडभाषयोर्बहवस्सन्ति । स च वेदान्तदेशिकः यादवाभ्युदयमिति श्रीकृष्णजन्मभूतधन्यस्य यदुकुलस्याभ्युदयवर्णनात्मकं चतुर्विंशतिसर्गयुतं महाकाव्यं विरचयामास । महाकविकालिदसस्य प्रभावः तस्मिनासीदिति विद्वांसो मन्यन्ते । अस्मिन् लघुप्रबन्धे कालिदासस्य रघुवंशात् (र.व) प्रथमसर्गात् द्वितीयतृतीयनवमश्लोकान् वेङ्कटनाथस्य तु श्रीपरमार्थस्तुतेः (प.स्तु) आद्यद्वयश्लोकान् च स्वीकृत्य तयोः महाकव्योरैकमत्यतामनुभवामस्तावत् । द्वयोरपि कृत्योः विषयः एकः – श्रीरामगुणानुभवः । कालिदासः स्वीयं नैच्यानुसन्धानं निवेदयत्यस्मिन् श्लोके –

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।

तितीर्षुर्दुस्तरं मोहात् उडुपेनास्मि सागरम् ॥ २ ॥ (र.व)

रघुवंशस्तु सागरसमानः मन्मतिस्तु स्वल्पा तस्या विषयस्तु अल्पतर एव । तथापि कस्मादपि मोहात् तामेवाल्पमतिमुडुपमिव स्वीकृत्य सागरन्तं तर्तुमिच्छामीति । अल्पमतिः सः केन वा प्रचोदितः कार्येस्मिन्?

         रघूणामन्वयं वक्ष्ये तनुवाग्विभवोपि सन् ।

         तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ ९ ॥ (र.व)

अल्पमतिरपि लघुवाग्विभवोपि साहसेन चापलायास्मै कार्यायोत्सहे यतो हि रघूणां गुणैरहं प्रचोदितः । कं विषयमधिकृत्य काव्यं कुर्यामिति चिन्तयति मयि तेषां गुणाः स्वयं मम कर्णमूलमागत्य ‘अस्मान् स्तौत्वि’ति मां सूचितवन्त इति ।

         वेदान्तदेशिकोपि स्वस्य नैच्यानुसन्धानं प्रायेणैवं रीत्यैव प्रकटयति । रणपुङ्गवस्य ते राम! गुणसागरे तावकस्तावको भवेयमिति चपलमत्या प्रविष्य इदानीं कृतसम्प्लवोस्मि । अस्मिन् त्वदीयगुणस्तुतिविषये त्वदनन्यसर्वभावैः ममाचार्यैः चोदितोपि प्राप्तार्हतालेशोपि तवानुग्रहं विना नैव शक्यमयं महत्कार्यमतोहमस्मि तवानुग्रहास्पदमिति । ममोडुपोपि नास्तीति भावः ।

         गुरुभिस्त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये ।

         रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहान्पदं ते ॥ २ ॥ (प.स्तु)

पुनः तृतीयश्लोके महाकविः कालिदासः स्वनैच्यानुसन्धानं प्रकटीकरोत्येवम् –

         मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।

         प्रांशुलभ्ये फले लोभाद् उद्भाहुरिव वामनः ॥ ३ ॥ (र.व)

मन्दमतिस्सन्नहं प्रतिभाशालिनां कवीनां यशः प्राप्तुमिदं कार्यमारभे । अस्तु यदुपहास्यताम् गमिष्याम्यनेन यथा कोपि वामनः उन्नतवृक्षे लुलितं किमपि फलं यत् उन्नताकृतिभिरेव लभ्यमानं उद्बाहुस्सन् मुहुः मुहुः उत्पतन् अलभ्यमानः परेषामुपहास्यतां गच्छति तथा । रघुकुलमेव उन्नतवृक्षस्स्यात् तत्स्थगुणा एव लुलितानि फलानि सन्त्विति । श्रीवेदान्तदेशिकोपि स्वीयां वन्दिभावेच्छां (कवित्वेच्छाम्) प्रकटयति उपसिस्थे द्वितीय श्लोके। तृतीयश्लोकस्थभाव एव स्फुरति किञ्चित् विशेषेण वेदान्तदेशिकस्य अधस्स्थे श्लोके –

         श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे ।

         यत्र तुङ्गुरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ १ ॥ (प.स्तु)

इय्ं स्तुतिः रघुवंशीयविजयराघवपरा । स च देवः श्रीरामः विजयराघव रणपुङ्गव आहवपुङ्गव इति नामभिः तिरुप्पुट्कुळीति विख्याते काञ्चीनगरसमीपवर्तिनि दिव्यक्षेत्रे विद्यमाने गृध्रसरसः तीरस्थमन्दिरमलङ्कुर्वन् आश्रितान् अनुगृह्णाति । तं पारिजातवृक्षमिति संभावयति कविः । अस्मात् वृक्षात् यत्किमपि फलमिष्यते तत् उन्नतजनैः अनुन्नतजनैरपि ग्रहीतुं शक्यते । वृक्ष एव स्वयं नम्री कराति । किन्तु नियमः कश्चित् वर्तते । फलं कांक्षमाणास्तावत् प्रणतास्स्युः विनीतभावयुक्ता वर्तेरन् । यदि गर्ववशात् अन्यथा भवेयुः तर्हि वृक्षोपि अत्युन्नतो भूत्वा फलप्राप्तिं निषेधति । तादृशं पारिजातं वयमुपास्महे यतो हि तं स्तोतुमर्हतामहं प्राप्नोमीति भावः कवेः ।

         अहो महतामैकमत्यम् । कविलोके भूतपूर्वाणां प्रभावः अनन्तरं भूतेष्वनिवार्यः । कालिदासस्यापि महर्षेः वाल्मीकस्य प्रभावोस्त्येव । किन्तु यथा सामान्यभावाः प्रायः सर्वेषामपि भवन्ति विशेषभावाः कवीनाम् प्रत्येकं भवन्त्येव । यः प्रथममुक्तवानिति विवादो मा भूत् । तोलनं कृत्वा अस्माभिः तेषामुन्नतकृतिभ्यः काव्यरसं रसनीयम् ।

॥ महाकविभ्यो नमो नमः । शुभं भूयात् ॥

Bharatabhara – a short article in Sanskrit

The Character of Bharata assumes much importance and invokes a greater sentiment in the minds of the readers for he bears the brunt of fate for no fault of his. He had to face the harsh words from his elder mother, Maharishis et al. His innocence is vindicated by the granting of Padukas by Rama in whom he places the burden of Kingship and awaits the return of Rama from his exile after which he is completely relieved of his bhara or burden.

This article in Sanskrit summarises his hardship.

भरतभरः – एकः लघुप्रबन्धः byडा. श्रीरामः जगन्नाथः

अस्ति महर्षिणा वाल्मीकिना प्रणीते महाकाव्ये इतिहासभूते श्रीमद्रामायणे सीतायाः चरिते सर्वेषामपि कथापात्राणां वैलक्ष्ण्यं महत्त्वञ्च । किन्तु भरतस्य वहितान्यवृथागर्हाभरस्य यावदस्ति माहात्म्यं तावन्नास्ति अन्येषामिति हि विभाति तोलनात्मकाध्ययने । असह्यदुर्वचनभरवाहिनः तस्य शिरसा धृतः स्वज्येष्ठभ्रातुः पादुकयोः भरः एव इतरान् सर्वान् अपि भरान् अपोहति । तस्य विवरणं तावत् पश्यामः अस्मिन् प्रबन्धे ।

रामादिचतुर्णां विवाहानन्तरं भरतं स्वमातुलगृहं प्रति चालयामास भगवान् कालः । एतस्मिन् समये राजा दशतथः रामस्य यौवराज्याभिषेकं प्रति चिन्तयामास । मन्त्रिणां प्रजानां च विषयेस्मिन् अभिप्रायं ज्ञात्वा कार्यसमाप्तये तत्वरे । अत्र स्वारस्यं तावत् दशरथः कैकेयीपरिणयसमये एव स्वश्वशुराय किञ्चिद्राज्यशुल्कं प्रतिश्रुतवान् । तद्धि ‘कैकेयीतनयम् अभिषेक्ष्यामी’ति प्रतिज्ञा । एतां प्रतिज्ञां भरतोऽपि ज्ञातवान्, ज्ञात्वैव रामस्याभिषेचनं निर्विघ्नं भवेत् तत्पर्यन्तं नाहं पुनरागमिष्यामीति मुदा स्वमातुलगृहं प्रति जगाम । एतत् स्वयमेव कैकेयीं गदिष्यति अनन्तरम् –

         अभिषेक्ष्यति रामं तु राजा यज्ञं तु यक्ष्यते।

         इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम्॥ (अ.का. ७२.२७)

दशरथोऽपि भरतस्य निर्मलाशयं ज्ञात्वापि विप्रोषिते तस्मिन् रामाभिषेके त्वरमानस्सन् रामाय समाधानमेवमुवाद –

         ज्येष्टानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः।

किन्तु चित्तं मनुष्याणाम् अनित्यमिति मे मतम् (अ.का.२६,२७)

         भरतः धर्मात्मैव ज्येष्ठं त्वामेव अनुवर्तते किन्तु चित्तचञ्चलता मनुष्याणां सर्वेषामपि अस्ति, यथाकथञ्चित् स तवाभिषेकं निबध्नीयादिति । रामोऽपि एतं विषयं (राज्यशुल्कं) सम्यक् ज्ञात्वापि अजानन्निव स्वभूमिकां सम्यक् निर्वहन् मातरि स्वस्य हर्षं प्रकटयति स्म । किन्तु वक्ष्यति ह्यनन्तरं भरताय –

पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्।

मातामहे समाश्रौषीद् राज्यशुल्कमनुत्तमम्॥( अ.का. १०७.३)

येन वयं जानीमः रामो दशरथप्रतिज्ञां विवेदेति । महाकविः कालिदासः रामस्य तथ्यामवस्थां सन्दर्भेऽस्मिन् वर्णयति एवम् –

पित्रा दत्तं रुदन् रामः प्राङ्महीं प्रत्यपद्यत।

पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत्॥ (र.व. १२.७)

प्रायः स परमात्मा कैकेय्या वरयाचनं प्रतीक्षमानस्सन् मौनमाचरितवान् पितुराज्ञाञ्च पालितवान्।

         दशरथस्य मृत्योः पश्चाद्दूताः त्वरन्ते स्म भरतमानेतुम् । तत्पूर्वमेव स्वदृष्टदुःस्वप्नेन भरतः स्वपुर्यां सर्वं न शोभनमिति मत्वा विषण्णाोsभूत् । सतां हि काऽपि शक्तिः विद्यते भाविनो विषयान् ज्ञातुम् । अयोध्यां पुनरागत्य पितरं राजानं दशरथमदृष्ट्वा मातरं यदापृच्छत् तदा सा सर्वं वृत्तान्तं तस्मै न्यवेदयत् । भरतस्य दुःखमधिकं मा भूदिति चिन्तयन्ती सैवमुवाच –

                 या गतिस्सर्वभूतानां तां गतिं ते पिता गतः । (अ.का. ७२.१५)

रुदन् भरतो यदा ‘रामं मम भ्रातरं पितरं बन्धुं तमेवाहं शरणं गच्छामि’ इत्युक्तवान् तदैव कैकेयी ससीतस्य सलक्ष्मणस्य तस्य वनगमनवृत्तान्तं श्रावितवती । गण्‍डस्योपरि जातपिण्डकेनेव दुःखमनुभूयमानाय भरताय तन्माता जगाद –

         त्वया त्विदानीं धर्मज्ञ राजत्वमवलब्यताम्।

         त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम्॥ (अ.का. ७२.५२)

इत्युक्तवति । अहो दैवस्य प्रभुत्वमिति भरतः बहुविलापं कृतवान्। यन्न भवेदिति मत्वा स्वमातुलगृहं प्रति गतवान् तदेव जातमिति विलपन् स्वमातरं धिक्कृत्वा –

सकामां न करिष्यामि त्वामहं पुत्रगर्द्धिनीम्। (अ.का. ७३.१७)

इति सरोषं कथयति स्म । अपि च स धर्मात्मा मातरं बुबोध –

अस्मिन् कुले हि सर्वेषां ज्येष्ठो राज्योऽभिषिच्यते। (अ.का. ७३.२०)

         कौसल्याः गृहं त्वरमानं तं तस्याः कोप एव स्वागतमकरोत्। यदा सा

                  इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्। (अ.का. ७५.११)

इति भरतमभ्यकुत्सयत्, तदा भरतस्य स्वानुभूयमाने तीव्रव्रणे तद्वचनसूची अतीव पीडां जनयामास । तस्याश्चरणयोः पतन् स बहुशपथं कृत्वा रामं प्रत्यानेष्यामि इति प्रतिज्ञां कृतवान् । स्वपितुः अन्त्येष्टिकर्माणि परिसमापितवान् । मन्त्रिभिः वसिष्ठादिभिः पुनः एकवारम् अभिषेचनं स्वस्याङ्गीक्रियतामिति चोद्यमानेऽपि

         ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः।

         नैवं भवन्तो मा वक्तुमर्हन्ति कुशला जनाः॥ (अ.का. ७९.७)

इति सरोषं वदन् पुरा यन्निश्चितं –

         निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः।

         दासभूतो भविष्यामि सुस्थितेनान्तरात्मना॥ (अ.का. ७३. २७)

तदेव परेषां प्रकटीकृत्य ससेनः वनं गत्वा तत्रैव रामं राजानं कृत्वा सर्वलोकसमक्षं सौमित्रिसीतासहितं तमानेष्यामीति वनगमनाय मतिं चकार । अहो महतां हि स्वधृतेः परीक्षा जायते पौनःपुन्यम् । महर्षिः वसिष्ठः पुनरपि भरतं स्वस्याभिषेकविषये उपदिशति । तदा वदति धर्मात्मा भरत एवम् –

         अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि।

         इक्ष्वाकूणाम् अहं लोके भवेयं कुलपांसनः॥ (अ.का. ७२. १४)

दार्ढ्येण तं वचनं निराकृतवान् । उक्तवान् खलु महर्षिः वाल्मीकिः आदौ प्रथमे सर्गे-

अयाचद्भ्रातरं राममार्यभावपुरस्कृतः। (र.व. १.३५)

         आम् भरतो आर्यतमः । ससेनं भरतं दृष्ट्वा श्रृङ्गवेरपुरे निषादराजः गुहोऽपि भरतं शशङ्के ‘रामहननायैव स आगच्छती’ति । गुहस्तु निषादः पामरः स्यात् स च भरतं शङ्केत । किन्तु महर्षिः भरद्वाजोऽपि स्ववागिषुणा भरतं धर्मवतां मानवतां श्रेष्ठमताडयदेवम् –

         कश्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि।

         अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च॥ (अ.का. ९०.१३)

         अहो , एतच्छ्रुत्वा भरतस्य हृदयमेव शकलीभूतम् । स न कदापि महर्षेः इदं वचनं प्रतीक्षते स्म । दीनः स प्रत्युक्तवानेवं –

                 हतोऽस्मि यदि मामेवं भगवानपि मन्यते। (अ.का. ९०.१५)

पुनः परीक्षा खलु भरतस्य । महर्षिः अब्रवीत् –

         जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति।

         अपृच्छ त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्॥ (अ.का. ९०.२१)

अहो महतां निग्रहोऽपि अनुग्रहायते । स च महर्षिः भरतं ससेनं सम्यक् भोजयामास । ततः चित्रकूटं प्रति भरतो निर्ययौ ।

         तया महत्या सेनया शान्ते वने महान् तुमुलो बभूव । तद्धेतुं ज्ञातुं रामेण प्रेरितःसन् लक्ष्मणः कस्यापि वृक्षस्योपरि आरुह्य भरतं ससेनमपश्यत् । क्षणक्रुद्धः स रामाय ‘भरतं हन्यामि’ति न्यवेदयत् । महात्मा रामः सर्वज्ञः लक्ष्मणमेवं बध्नाति स्म वाचानया –

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।

वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्॥ (अ.का. ९७.१५)

अहो सहृदयहृदयज्ञो पुण्यात्मा रामः । अनन्तरं भरतः तत्र समागत्य रामस्य चरणयोः पपात । परस्परं राज्यभारावहने बुध्यमानौ द्वावपि भ्रातरौ स्वीयां मतिं न पर्यत्यजताम्।

अन्ततः उपायः एकः समुदितः। महर्षिणा वसिष्ठेन चोदितः भरतः स्वभ्रातरं रामं प्रार्थयामासैवं प्रतिज्ञां च कृतवान् ।

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते।

एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥ (अ.का. ११२.२१)

तव पादुकयोर्न्यस्य राज्यतन्त्रं परन्तप।

चतुर्दशे हि संपूर्णे वर्षेऽह्नि रघूत्तम॥  (अ.का. ११२.२५)

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्॥ (अ.का. ११२.२६)

पादुके स्वशिरसि सम्यगादाय –

ततः शिरसि कृत्वा तु पादुके भरतस्तदा।

सारुरोह रथं हृष्टः शत्रुघ्नसहितस्तदा॥ (अ.का. ११३.१)

नन्दिग्रामं यात्वा रथादवतीर्य उक्तवान् हि गुरुभ्यः भरतः –

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासमुत्तमम् ।

योगक्षेमावहे चेमे पादुके हेमभूषिते ॥ (अ.का.११५.१५)

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।

आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥

(अ.का.११५.१६)

                 भात्रा तु मयि संन्यासो निक्षिप्तः सौहृदादयम् ।

                 तमिमं पालयिष्यामि राघवाहृगमनं प्रति ॥ (अ.का.११५.१७)

                 क्षिप्रं संयाजयित्वा तु राघवस्य पुनः स्वयम् ।

                 चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ (अ.का.११५.१८)

ततो निक्षिप्तभारोऽहं राघवेण समागतः।

निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तितम्॥ (अ.का. ११५.१९)

पादुकयोः राज्यपट्टाभिषेकं कृत्वा तयोः सर्वविदोपचारान् चकार । यदा रामः पुनरागत्य स्वस्य विभूतिम् अयोध्यां नृपत्वेन परिपालयिष्यति तदैव मम भरः पूर्णतमः निवर्त्येत। इदानीं तु तस्य पादुकयोरेव मम भरं न्यस्यामि इति किञ्चित् निर्भरः आसीत् स धर्मात्मा सानुक्रोशो जितेन्द्रियः भरतः।

                 ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके ।

                 तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ (अ.का.११५.२६)

भरताय परं नमोस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।

यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ (श्री.पा.स.२)

श्रीगुरुभ्यो नमः

॥शुभं भूयात्॥

Sri Dasavathara Stotram – meaning with emphasis on Sanskrit

Sri Dasavathara Stotram is a composition by Sri Vedanta Desika on the ten avatars of Sriman Narayana whose archa forms adorn the Dasavatara Sannidhi in Srirangam. In the first verse Swami Desika sings in praise of Bhagavan Ranganatha and his divine consort Ranganayaki, the divine actor-couple who adorn the ten avatars so as to bestow auspiciousness on all the Jivatmas. There are thirteen verses in all. The ten avatars are praised from the 2nd to the 11th. The thirteen summarises all the ten avatars with beautiful names invocatory names of the Bhagavan, praising the significance of his divya nama. The thirteenth verse mentions the phala stuti.

The recordings are available in parts and they are provided in the links below

Introduction to the 4th sloka

https://drive.google.com/open?id=1ZA79FHEK2iuO-_uUWsh-I_uAhkDaGFKf

5th verse to the 8th verse

https://drive.google.com/open?id=1ZEgVzilF5OoOK1po_AsPdyhp3In9Me4L

9th verse to the 13th verse

https://drive.google.com/open?id=1axW8aQWkET2I4yIz_0eNs6iDsa0Q184T

Dasan

My poem on ‘Going Green’

https://www.msn.com/en-in/news/environment/industries-shut-ganga-water-quality-improves/ar-BB12beCN?ocid=msedgntp

https://www.nbcnews.com/science/environment/coronavirus-shutdowns-have-unintended-climate-benefits-n1161921

In the backdrop of the above news items that are appearing in the times of corona I am sharing a poem of mine that I wrote roughly 10 years back..

My poem on “Going Green”

If we learn to walk and not run in LIFE (both literally and metaphorically) I think we can go green! May be a little compromise here and there can extend the life of EARTH a little more…my humble thoughts…

When there is a thought about tomorrow,
in our minds, arises an unfounded sorrow,
each one trying to enjoy as much now,
making the serene nature cry and bow,
the endless greed of ours has her raped,
denuding her without much to be draped,
contended ancestral lives becoming a myth,
n somehow there seems to be a lack of faith,
funny, all our lips carry the name of god,
the real trust and devotion deluding us hard,
did we ever worry when we were in the womb?
are we simply worrying our way to the tomb?
with whatever, the idea is to only hoard,
in this, without exception, all in a herd,
hopeless it is to go back to past glory,
let us at least stop the future being gory,
to this, let’s take a step a day with muscle,
do everything to sustain without a fizzle,
in our way, let us walk and pedal, 
in her way, try not to meddle,
for she knows how to resuscitate,
at least let us try and not suffocate,
not for nothing god gave us this body,
let’s refrain from those that are shoddy!

Sreeram Jaganathan

Also please watch the video below which I vaguely remember was the inspiration to the pen the above poem.

Activities of Sree Ramanuja Vidyalaya

NOTE ON ACTIVITIES OF SREE RAMANUJA VIDYALAYA SINCE INCEPTION

Sree Ramanuja Vidyalaya has been functioning since the 26th of January 2018 on an informal basis. Dr.Sreeram Jaganathan, B.Sc, M.B.A., M.A, M.Phil, PhD (Sanskrit) and his wife Smt.Anusha Sreeram, B.Sc, M.Sc (IT), M.Music founded the Vidyalaya together to impart value based education to kids during pre and after school hours.

Dr.Sreeram has been teaching Stotras, Basics of Veda, Gita, Sanskrit, moral values and ethics through stories from puranans, itihasas and other sources. He has been mentoring the young minds by instilling self-confidence in them, building on their personality by improving on their listening, understanding, communication and other related skills.

The students are encouraged to speak on a weekly basis on some topic or narrate a story to train their thinking and communication skills. They are taught to think in multiple languages by helping them with the nuances.

Around 50 kids are learning Stotras, Sanskrit etc from Dr.Sreeram. A number of adults are also learning from him. He gives weekly lectures on topics like the Srimad Bhagavad Gita etc to quite a few adults who are interested to know the age-old wisdom that is contained in such texts.

The main idea in imparting such education is to make kids be rooted in tradition yet can adopt themselves to the changing times. They will grow up to be mentors themselves and would motivate their peers wherever they go to study or work.

Smt. Anusha has been teaching Indian classical music (carnatic) – vocal and instrumental (predominantly violin) to many children during their after school hours. There are around 30 students who are learning from Smt.Anusha.

Smt.Anusha gives lectures on music to equip her students with the theoretical knowledge that will complement their performance skills.

Besides offering the above classes and lectures, the Vidyalaya has been organising summer camps for kids to impart traditional knowledge and to make them morally, ethically and spiritually equipped to take on life as they grow up.

Opportunities are given to the kids to showcase their prowess in traditional areas of learning and classical arts. Competitions are also conducted to motivate them. This camp has been happening for two years now.

The Vidyalaya also conducts programs for adults on traditional rituals.

A Trust in the name Sree Ramanuja Vidyalaya was formed on 26th July 2019 by Dr.Sreeram Jaganathan (Managing Trustee), Dr. S.Padmanabhan (Trustee) and Sri. E.S.Mukundan (Trustee) with an idea to reach out to many more kids and adults and to run the classes on a full-fledged basis in a more organised manner. A fulltime modern patashala (for boys) combining Vedic education with modern education has been functioning since the 8th of October 2019. There are two full time students and three part time studnets. Some more full time students are expected to join in April 2020. Next step would to be to extend the patashala for girl children without compromising on the Sanatana dharma injunctions.

Planning is underway to rope in many professionals and teachers to impart education on a variety of topics including ancient Indian languages like Tamil, Sanskrit, Telugu, Kannada etc. A bank account has been opened in the name of the Trust and funds are being collected from noble minds. Dr.Sreeram can be contacted on +91 9940086253 and sreeramanujavidyalaya@gmail.com. The Vidyalaya has a website www.sreeramanuja.com that is in the process of being renovated.