Two famous poets – Kalidasa and Venkatanatha – a very short comparison of their works – an article in Sanskrit

Mahakavis, though rare, are born from time to time and compose wonderful literary works with their unparalleled intellect or pratibha. The ones who are born earlier do influence the latter ones and the earlier ones are indeed influenced by those who are born prior to them. This influence is evident to the discerning reader when he finds the usage of similar or same similes etc. This should not be mistaken for plagiarism as it is not altogether not possible for two brilliant minds to think about the same idea. When ordinary men are capable to think about the same mundane some things, so are the gifted men capable to think about extraordinary things. Sage Valmiki influenced Kalidasa and Kalidasa has influenced Venkatanatha who is popularly known as Vedanta Desika. This short article compares the two poets through a couple of verses from their works. This is only a tip of an iceberg. A lot remains to be explored.

महाकव्योरैकमत्यम् – एकः लघुप्रबन्धः

डा. श्रीरामः जगन्नाथः

रघुवंशकुमारसंभवयोः महाकाव्ययोः रचयितारं महाकविं कालिदासं काव्यरसिकास्सर्वेपि जानन्ति प्रायेण । कवितार्किकसिंहो वेदान्तदेशिक इति बिरुदाभ्यां प्रसिद्धः श्रीवेङ्कटनाथोपि महाकविष्यन्यतमः विश्रुतश्च । प्रायस्तस्य प्रसिद्धिस्तु अधिकतया तर्कमीमांसावेदान्तशास्त्रवैशारद्येन स्यात् । तेन कृतेषु शताधिककृतिषु वेदान्तविषयपराणि भाष्यानि प्रकरणग्रन्थाः परमात्मस्तुतिपराश्च संस्कृतद्रमिडभाषयोर्बहवस्सन्ति । स च वेदान्तदेशिकः यादवाभ्युदयमिति श्रीकृष्णजन्मभूतधन्यस्य यदुकुलस्याभ्युदयवर्णनात्मकं चतुर्विंशतिसर्गयुतं महाकाव्यं विरचयामास । महाकविकालिदसस्य प्रभावः तस्मिनासीदिति विद्वांसो मन्यन्ते । अस्मिन् लघुप्रबन्धे कालिदासस्य रघुवंशात् (र.व) प्रथमसर्गात् द्वितीयतृतीयनवमश्लोकान् वेङ्कटनाथस्य तु श्रीपरमार्थस्तुतेः (प.स्तु) आद्यद्वयश्लोकान् च स्वीकृत्य तयोः महाकव्योरैकमत्यतामनुभवामस्तावत् । द्वयोरपि कृत्योः विषयः एकः – श्रीरामगुणानुभवः । कालिदासः स्वीयं नैच्यानुसन्धानं निवेदयत्यस्मिन् श्लोके –

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।

तितीर्षुर्दुस्तरं मोहात् उडुपेनास्मि सागरम् ॥ २ ॥ (र.व)

रघुवंशस्तु सागरसमानः मन्मतिस्तु स्वल्पा तस्या विषयस्तु अल्पतर एव । तथापि कस्मादपि मोहात् तामेवाल्पमतिमुडुपमिव स्वीकृत्य सागरन्तं तर्तुमिच्छामीति । अल्पमतिः सः केन वा प्रचोदितः कार्येस्मिन्?

         रघूणामन्वयं वक्ष्ये तनुवाग्विभवोपि सन् ।

         तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ ९ ॥ (र.व)

अल्पमतिरपि लघुवाग्विभवोपि साहसेन चापलायास्मै कार्यायोत्सहे यतो हि रघूणां गुणैरहं प्रचोदितः । कं विषयमधिकृत्य काव्यं कुर्यामिति चिन्तयति मयि तेषां गुणाः स्वयं मम कर्णमूलमागत्य ‘अस्मान् स्तौत्वि’ति मां सूचितवन्त इति ।

         वेदान्तदेशिकोपि स्वस्य नैच्यानुसन्धानं प्रायेणैवं रीत्यैव प्रकटयति । रणपुङ्गवस्य ते राम! गुणसागरे तावकस्तावको भवेयमिति चपलमत्या प्रविष्य इदानीं कृतसम्प्लवोस्मि । अस्मिन् त्वदीयगुणस्तुतिविषये त्वदनन्यसर्वभावैः ममाचार्यैः चोदितोपि प्राप्तार्हतालेशोपि तवानुग्रहं विना नैव शक्यमयं महत्कार्यमतोहमस्मि तवानुग्रहास्पदमिति । ममोडुपोपि नास्तीति भावः ।

         गुरुभिस्त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये ।

         रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहान्पदं ते ॥ २ ॥ (प.स्तु)

पुनः तृतीयश्लोके महाकविः कालिदासः स्वनैच्यानुसन्धानं प्रकटीकरोत्येवम् –

         मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।

         प्रांशुलभ्ये फले लोभाद् उद्भाहुरिव वामनः ॥ ३ ॥ (र.व)

मन्दमतिस्सन्नहं प्रतिभाशालिनां कवीनां यशः प्राप्तुमिदं कार्यमारभे । अस्तु यदुपहास्यताम् गमिष्याम्यनेन यथा कोपि वामनः उन्नतवृक्षे लुलितं किमपि फलं यत् उन्नताकृतिभिरेव लभ्यमानं उद्बाहुस्सन् मुहुः मुहुः उत्पतन् अलभ्यमानः परेषामुपहास्यतां गच्छति तथा । रघुकुलमेव उन्नतवृक्षस्स्यात् तत्स्थगुणा एव लुलितानि फलानि सन्त्विति । श्रीवेदान्तदेशिकोपि स्वीयां वन्दिभावेच्छां (कवित्वेच्छाम्) प्रकटयति उपसिस्थे द्वितीय श्लोके। तृतीयश्लोकस्थभाव एव स्फुरति किञ्चित् विशेषेण वेदान्तदेशिकस्य अधस्स्थे श्लोके –

         श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे ।

         यत्र तुङ्गुरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ १ ॥ (प.स्तु)

इय्ं स्तुतिः रघुवंशीयविजयराघवपरा । स च देवः श्रीरामः विजयराघव रणपुङ्गव आहवपुङ्गव इति नामभिः तिरुप्पुट्कुळीति विख्याते काञ्चीनगरसमीपवर्तिनि दिव्यक्षेत्रे विद्यमाने गृध्रसरसः तीरस्थमन्दिरमलङ्कुर्वन् आश्रितान् अनुगृह्णाति । तं पारिजातवृक्षमिति संभावयति कविः । अस्मात् वृक्षात् यत्किमपि फलमिष्यते तत् उन्नतजनैः अनुन्नतजनैरपि ग्रहीतुं शक्यते । वृक्ष एव स्वयं नम्री कराति । किन्तु नियमः कश्चित् वर्तते । फलं कांक्षमाणास्तावत् प्रणतास्स्युः विनीतभावयुक्ता वर्तेरन् । यदि गर्ववशात् अन्यथा भवेयुः तर्हि वृक्षोपि अत्युन्नतो भूत्वा फलप्राप्तिं निषेधति । तादृशं पारिजातं वयमुपास्महे यतो हि तं स्तोतुमर्हतामहं प्राप्नोमीति भावः कवेः ।

         अहो महतामैकमत्यम् । कविलोके भूतपूर्वाणां प्रभावः अनन्तरं भूतेष्वनिवार्यः । कालिदासस्यापि महर्षेः वाल्मीकस्य प्रभावोस्त्येव । किन्तु यथा सामान्यभावाः प्रायः सर्वेषामपि भवन्ति विशेषभावाः कवीनाम् प्रत्येकं भवन्त्येव । यः प्रथममुक्तवानिति विवादो मा भूत् । तोलनं कृत्वा अस्माभिः तेषामुन्नतकृतिभ्यः काव्यरसं रसनीयम् ।

॥ महाकविभ्यो नमो नमः । शुभं भूयात् ॥

302total visits,1visits today

2 Replies to “Two famous poets – Kalidasa and Venkatanatha – a very short comparison of their works – an article in Sanskrit”

  1. सम्यक् प्रतिपादितं महोदयेन।

    साम्यं यत् मम दृष्टिपथे आगतम्।
    १) समानार्थः।
    पुराणमित्येव न साधु सर्वं . . . . ~ मालविकाग्निमित्रम्।

    तदात्वे नूतनं सर्वमायत्यां च पुरातनम् . . . . । (यादवाभ्युदये – १.६)

    प्रत्येतव्यं तदर्थ्यं पटुरमतिभिः प्राक्तनं नूतनं वा । ( सङ्कल्पसूर्योदये -२.२९)

    1. namaskaaraH. mahaan dhanyavaadaH
      bhavataapi samyak suchitam. bhavishyatkaale yadyaham kinchit tasmin vishaye yatishyaami cet avashyam sveekarishyaami.
      DhayavaadaH.

Leave a Reply

Your email address will not be published. Required fields are marked *

Enter Captcha Here : *

Reload Image